(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

सभापर्व ~ महाभारत | Mahabharat Sabha Parv In Hindi


॥ श्रीः ॥
2.102. अध्यायः 102
Mahabharata - Sabha Parva - Chapter Topics
धृतराष्ट्रेण विदुरम्प्रति पाण्डवानां वनप्रस्थानसमये चेष्टविशेषप्रश्ने तत ्तच्चेष्टाविशेषकथनपूर्वकं तत्तदभिप्रायाविष्करणम् ॥ 1॥ द्रोणेन दुर्योधनाय हितोपदेशः॥ 2॥
Mahabharata - Sabha Parva - Chapter Text

वैशम्पायन उवाच॥

तमागतमथो राजा विदुरं दीर्घदर्शिनम्।
साशङ्क इव प्रपच्छ धृतराष्टोऽम्बिकासुतः॥ 2-102-1(15528)
कथं गच्छति कौन्तेयो धर्मपुत्रो युधिष्ठिरः।
भीमसेनः सव्यसाची माद्रीपुत्री च पाण्डवौ॥ 2-102-2(15529)
धौम्यश्चैव कथं क्षत्तर्द्रौपदी च यशस्विनी।
श्रोतुमिच्छाम्यहं सर्वं तेषां शंस विचेष्टितम्॥ 2-102-3(15530)
विदुर उवाच॥ 2-102-4x(1737)
वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः।
बाहू विशालौ सम्पश्यन्भीमो गच्छति पाण्डवः॥ 2-102-4(15531)
सिकता वपन्सव्यसाची राजानमनुगच्छति।
माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति॥ 2-102-5(15532)
पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः।
दर्शनीयतमो लोके राजानमनुगच्छति॥ 2-102-6(15533)
कृष्णा तु केशैः प्रच्छाद्य मुखमायतलोचना।
दर्शनीया प्ररुदती राजानमनुगच्छति॥ 2-102-7(15534)
धौम्यो रौद्राणि सामानि याम्यानि च विशाम्पते।
गायन्गच्छति मार्गेषु कुशानादाय पाणिना॥ 2-102-8(15535)
धृतराष्ट्र उवाच॥ 2-102-9x(1738)
विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः।
तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते॥ 2-102-9(15536)
विदुर उवाच॥ 2-102-10x(1739)
निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च।
न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः॥ 2-102-10(15537)
योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत।
निकृत्या भ्रंशितः क्रोधान्नोन्मीलयति लोचने॥ 2-102-11(15538)
नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा।
स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः॥ 2-102-12(15539)
यथा च भीमो व्रजति निगदतः शृणु।
बाह्वोर्बले नास्ति समो ममेति भरतर्षभ॥ 2-102-13(15540)
बाहू विशालौ कृत्वाऽसौ तेन भीमोपि गच्छति।
बाहू विदर्शयन्राजन्बाहुद्रविणदर्पितः॥ 2-102-14(15541)
चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः।
प्रदिशञ्शरसम्पातान्कुन्तीपुत्रोऽर्जुनस्तदा॥ 2-102-15(15542)
सिकता वपन्सव्यसाची राजानमनुगच्छति।
असक्ताः सिकतास्तस्य यथा सम्प्रति भारत।
असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु॥ 2-102-16(15543)
न मे कश्चिद्विजानीयान्मुखमद्येति भारत।
मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति॥ 2-102-17(15544)
नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो।
पांसूपलिप्तसर्वाङ्गो नकुलस्तेन गच्छति॥ 2-102-18(15545)
एकवस्त्रा प्ररुदती मुक्तकेशी रजस्वला।
शोणितेनाक्तवसना द्रौपदी वाक्यमब्रवीत्॥ 2-102-19(15546)
यत्कृतेऽहमिदं प्राप्ता तेषां वर्षे चतुर्दशे।
हतपत्यो हतसुता हतबन्धुजनप्रियाः॥ 2-102-20(15547)
बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः।
एवं कृतोदका भार्याः प्रवेक्ष्यन्ति गजाह्वयम्॥ 2-102-21(15548)
कृत्वा तु नैर्ऋतान्दर्भान्धीरो धौम्यः पुरोहितः।
सामानि गायन्याम्यानि पुरतो याति भारत॥ 2-102-22(15549)
हतेषु भरतेष्वाजौ कुरूणां गुरवस्तदा।
एवं सामानि -- न्तीत्युक्त्वा धौम्योपि गच्छति । 2-102-23(15550)
`प्रस्थाप्य पाण्डवाञ्शेषान्निः शेषस्ते भविष्यति।
इति धौम्यो व्यवसितो रौद्रसामानि गायति॥ 2-102-24(15551)
धृतराष्ट्र उवाच॥ 2-102-25x(1740)
किमब्रुवन्नैकृतिकः किं वा नागरिका जनाः।
तथ्येन मे समाचक्ष्व क्षत्तः सर्वमशेषतः ॥ 2-102-25(15552)
विदुर उवाच॥ 2-102-26x(1741)
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा येऽन्ये वदन्त्यथ।
तच्छृणुष्व महाराज वक्ष्यते च मया तव॥ 2-102-26(15553)
प्रकृतय ऊचुः। 2-102-27x(1742)
हाहा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम्।
अहो धिक्कुरुवृद्धानां बालानामिव चेष्टितम्॥ 2-102-27(15554)
राष्ट्रेभ्यः पाण्डुदायादाँल्लोभान्निर्वासयन्ति ये।
अनाथाः स्म वयं सर्वे वियुक्ताः पाण्डुनन्दनैः॥ 2-102-28(15555)
दुर्विनीतेषु लुब्धेषु का प्रीतिः कौरवेषु नः।
इति पौराः सुदुः खार्ताः क्रोशन्ति स्म पुनः पुनः॥ 2-102-29(15556)
एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम्।
कथयन्तश्च कौन्तेया वनं जग्मुर्मनस्विनः॥ 2-102-30(15557)
एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात्।
अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत॥ 2-102-31(15558)
राहुरग्रसदादित्यमपर्वणि विशाम्पते।
उल्का चाप्यपसव्येन पुरं कृत्वा व्यशीर्यत॥ 2-102-32(15559)
प्रत्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः।
देवायतनचैत्येषु प्राकाराट्टालकेषु च॥ 2-102-33(15560)
एवमेते महोत्पाताः प्रादुरासन्दुरासदाः।
भरतानामभावाय राजन्दुर्मन्त्रिते तव॥ 2-102-34(15561)
वैशम्पायन उवाच॥ 2-102-35x(1743)
एवं प्रवदतोरेव तयोस्तत्र विशाम्पते।
धृतराष्ट्रस्य राज्ञश्च विदुरस्य च धीमतः॥ 2-102-35(15562)
नारदश्च सभामध्ये कुरूणामग्रतः स्थितः।
महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह॥ 2-102-36(15563)
इतश्चतुर्दशे वर्षे विङ्क्ष्यन्तीह कौरवाः।
दुर्योधनापराधेन भीमार्जुनबलेन च॥ 2-102-37(15564)
इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत।
ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः॥ 2-102-38(15565)
ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः।
द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन्॥ 2-102-39(15566)
अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम्।
दुःशासनं च कर्णं च सर्वानेव च भारतान्॥ 2-102-40(15567)
अवध्यान्पाण्डवान्प्राहुर्देवपुत्रान्द्विजातयः।
अहं चै शरणं प्राप्तान्वर्तमानो यथाबलम्॥ 2-102-41(15568)
गन्ता सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान्।
नोत्सहेयं परित्यक्तुं दैवं हि बलवत्तरम्॥ 2-102-42(15569)
धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः।
ते च द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवः॥ 2-102-43(15570)
चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः।
वैरं निर्यातयिष्यन्ति महद्दुःखाय पाण्डवाः॥ 2-102-44(15571)
मया च भ्रंशितो राजन्द्रुपदः सखिविग्रहे।
पुत्रार्थमयजद्राजा वधाय मम भारत॥ 2-102-45(15572)
याजोपयाजतपसा पुत्रं लेभे स पावकात्।
धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम्॥ 2-102-46(15573)
धृष्टद्युम्नस्तु पार्थानां स्यालः सम्बन्धतो मतः।
पाण्डवानां प्रियरतस्तस्मान्मां भयमाविशत्॥ 2-102-47(15574)
ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी।
मर्त्यधर्मतया तस्मादद्य मे साध्वसो महान्॥ 2-102-48(15575)
गतो हि पक्षतां तेषां पार्षतः परवीरहा।
रथातिरथसङ्ख्यायां योऽग्रणीरर्जुनो युवा॥ 2-102-49(15576)
सृष्टप्राणो भृशतरं तेन चेत्सङ्गमो मम।
किमन्यद्दुःखमधिकं परमं भुवि कौरवाः॥ 2-102-50(15577)
धृष्टद्युम्नो द्रोणमृत्युरिति विप्रथितं वचः।
मद्वधायाश्रितोऽप्येष लोके चाप्यतिविश्रुतः॥ 2-102-51(15578)
सोऽयं नूनमनुप्राप्तस्त्वत्कृते कालपर्ययः।
त्वरितं कुरुत श्रेयो नैतदेतावता कृतम्॥ 2-102-52(15579)
मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी।
जयध्वं च महायज्ञैर्भोगानश्नीत दत्त च॥ 2-102-53(15580)
इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम्।
दुर्योधन निशम्यैतत्प्रतिपद्य यथेच्छसि॥ 2-102-54(15581)
शमं वा पाण्डुपुत्रेण प्रयुङ्क्ष्व यदि मन्यसे। 2-102-55(15582)
वैशम्पायन उवाच॥
द्रोणस्य --चनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम्॥ 2-102-55x(1744)
सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान्।
यदि ते न निवर्तन्ते सत्कृता यान्तु पाण्डवाः। 2-102-56(15583)
सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः॥ ॥ 2-102-57(15584)

इति श्रीमन्महाभारते सभापर्वणि अनुद्यतपर्वणि द्व्यधिकशततमोऽध्यायः॥ 102॥

Mahabharata - Sabha Parva - Chapter Footnotes
2-102-16 असक्ताः परस्परमलग्नाः॥ 2-102-39 द्वीपमाश्रयम्॥ 2-102-48 देवदत्तो देवैर्दत्तः॥ 2-102-50 सङ्गमः सङ्ग्रामे इति शेषः॥ 2-102-53 हैमनी हेमन्तसम्बन्धिनी॥ 2-102-54 वैशसं नाशम्॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.